|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.168. अध्यायः 168
Mahabharata - Adi Parva - Chapter Topics
हिडिम्बया सह पाण्डवानां शालिहोत्रसरोगमनम्॥ 1 ॥
शालिहोत्रेण तेषामातिथ्यकरणम्॥ 2 ॥
समयकरणपूर्वकं भीमेन हिडिम्ब्याः परिग्रहः॥ 3 ॥
रमणीयेषु प्रदेशेषु भीमेन सह क्रीडित्वा सायाह्ने शालिहोत्राश्रमं प्रति हिडिम्ब्या निवर्तनम्॥ 4 ॥
तत्र व्यासागमनम्॥ 5 ॥
व्यासेन कुन्त्या आश्वासनम्॥ 6 ॥
व्यासस्य प्रतिनिवर्तनम्॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-168-0x(985)(7665)
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता॥ 1-168-1(7666)
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी।
शालिहोत्रसरो रम्यमाससाद जलार्थिनी॥ 1-168-2(7667)
वनस्पतितलं गत्वा परिमृज्य गृहं यथा।
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा॥ 1-168-3(7668)
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा।
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च॥ 1-168-4(7669)
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन्।
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा॥ 1-168-5(7670)
मनसा चिन्तयामास पानीयं भोजनं महत्।
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह॥ 1-168-6(7671)
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत्।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम्॥ 1-168-7(7672)
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत्।
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः॥ 1-168-8(7673)
अहं धर्मविदाऽनेन मान्या गुरुतरा तव।
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु॥ 1-168-9(7674)
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर॥ 1-168-10(7675)
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति।
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम्॥ 1-168-11(7676)
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर।
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता॥ 1-168-12(7677)
युधिष्ठिरं च मां चैव वरयामास धर्मतः।
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति॥ 1-168-13(7678)
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु। 1-168-14(7679)
वैशम्पायन उवाच।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम्॥ 1-168-14x(986)
शासनं ते करिष्यामि वेदशासनमित्यपि।
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम्॥ 1-168-15(7680)
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्।'
यावत्कालेन भवति पुत्रस्योत्पादनं शुभे॥ 1-168-16(7681)
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे।
`विशेषतो मत्सकाशे मा प्रकाशय नीचताम्॥ 1-168-17(7682)
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि। 1-168-18(7683)
वैशम्पायन उवाच।
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा॥ 1-168-18x(987)
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत्।
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी॥ 1-168-19(7684)
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा।
शैलशृङ्गेषु रम्येषु देवतायतनेषु च॥ 1-168-20(7685)
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु।
कृत्वा सा परमं रूपं सर्वाभरणभूषिता॥ 1-168-21(7686)
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्।
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु॥ 1-168-22(7687)
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च।
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च॥ 1-168-23(7688)
देवारण्येषु पुण्येषु तथा पर्वतसानुषु।
सुतीर्थवनतोयासु तथा गिरिनदीषु च॥ 1-168-24(7689)
सागरस्य प्रदेशेषु भणिहेमयुतेषु च।
गुह्यकानां निवासेषु कुलपर्वतसानुषु॥ 1-168-25(7690)
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च।
बिभ्रती परमं रूपं रमयामास पाण्डवम्॥ 1-168-26(7691)
`यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह।
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः॥ 1-168-27(7692)
शुभं हि जघनं तस्याः सवर्णमणिमेखलम्।
न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः॥' 1-168-28(7693)
रमयन्ती ततो भीमं तत्रतत्र मनोजवा।
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः॥ 1-168-29(7694)
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम्।
आनीय वै स्वके गेहे दर्शयामास मातरम्॥ 1-168-30(7695)
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा।
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां॥ 1-168-31(7696)
कामांश्च मुखवासादीनानयिष्यति भोजनम्।
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः॥ 1-168-32(7697)
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः।
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम्।
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी॥ 1-168-33(7698)
श्रीव्यास उवाच। 1-168-34x(988)
मयेदं मनसा पूर्वं विदितं भरतर्षभाः।
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः॥ 1-168-34(7699)
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम्।
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः॥ 1-168-35(7700)
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः॥ 1-168-36(7701)
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः॥ 1-168-37(7702)
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः।
तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति॥ 1-168-38(7703)
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः॥ 1-168-39(7704)
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः।
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम्॥ 1-168-40(7705)
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम्॥ 1-168-41(7706)
वैशम्पायन उवाच। 1-168-42x(989)
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान्।
स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः॥ 1-168-42(7707)
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः।
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः॥ 1-168-43(7708)
पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट्।
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी॥ 1-168-44(7709)
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम्।
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम्॥ 1-168-45(7710)
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा॥ 1-168-46(7711)
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः॥ 1-168-47(7712)
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च।
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः॥ 1-168-48(7713)
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति॥ 1-168-49(7714)
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः।
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः॥ 1-168-50(7715)
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम्॥ 1-168-51(7716)
वैशम्पायन उवाच। 1-168-52x(990)
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः॥ ॥ 1-168-52(7717)
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः॥ 168 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-168-38 दीनतो बालत इति द्वयं भावप्रधानम्॥ अष्टषष्ट्युत्तरशततमोऽध्यायः॥ 168 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|